वांछित मन्त्र चुनें

न दे॒वाना॒मपि॑ ह्नुतः सुम॒तिं न जु॑गुक्षतः । श्रवो॑ बृ॒हद्वि॑वासतः ॥

अंग्रेज़ी लिप्यंतरण

na devānām api hnutaḥ sumatiṁ na jugukṣataḥ | śravo bṛhad vivāsataḥ ||

पद पाठ

न । दे॒वाना॑म् । अपि॑ । ह्नु॒तः । सु॒ऽम॒तिम् । न । जु॒गु॒क्ष॒तः॒ । श्रवः॑ । बृ॒हत् । वि॒वा॒स॒तः॒ ॥ ८.३१.७

ऋग्वेद » मण्डल:8» सूक्त:31» मन्त्र:7 | अष्टक:6» अध्याय:2» वर्ग:39» मन्त्र:2 | मण्डल:8» अनुवाक:5» मन्त्र:7


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - पुनरपि दम्पती के विशेषण में यह ऋचा कही गई है। यथा−जो स्त्री पुरुष ईश्वरानुरागी होते हैं, वे (देवानाम्) देवों से (न+अपि+ह्नुतः) अपलाप नहीं करते हैं। प्रतिज्ञा करके न देने का नाम अपलाप है और (सुमतिम्) ईश्वर-प्रदत्त सुबुद्धि को (न+जुगुक्षतः) नहीं छिपाते हैं। अर्थात् निज बुद्धि द्वारा अन्यान्य जनों का उपकार करते हैं और इस प्रकार शुभाचरणों से जगत् में (विवासतः) विस्तार करते हैं या देते हैं ॥७॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - पुनरपि दम्पती विशिष्येते−यौ दम्पती ईश्वरानुरागिणौ भवतः। तौ। देवानां विदुषाम्। न अपिह्नुतो नापलापं कुरुतः। अपिह्नवोऽपह्नवोऽपलापः। देवेभ्यो दास्यामीति प्रतिज्ञाय पुनरदानमपलापः। तथा सुमतिं परमेश्वरात्प्राप्तां सुबुद्धिं न जुगुक्षतः न जुघुक्षतः। न संवरीतुमिच्छतः। संवरणमाच्छादनम्। न आच्छादयः। अपि च। शुभाचरणैः। जगति। बृहत् श्रवो यशोऽन्नं वा। विवासतः परिचरतः परितो विस्तारयतः प्रयच्छतो वा ॥७॥